Ram Raksha Stotram राम रक्षा स्तोत्र

 राम रक्षा स्तोत्र Ram Raksha Stotra in Sanskrit


ॐ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि:

श्रीसीतारामचन्द्रो देवता

अनुष्टुप्छन्द: सीता शक्ति: श्रीमान् हनुमान् कीलकं

श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोग: ।


ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं

वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामां कारूढ़ सीतामुख कमलमि लल्लोचनं नीरदाभं

नानालन्कार दीप्तं दधत मुरु जटा मण्डलं रामचन्द्रम् ।।


स्तोत्रम्

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातक नाशनम् ।।1।।


ध्यात्वा नीलोत्पल श्यामं रामं राजीव लोचनम् ।

जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ।।2।।


सासितूण धनुर्बाण पाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमा विर्भूतमजं विभुम् ।।3।।


रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम् ।

शिरो मे राघव: पातु भालं दशरथात्मज: ।।4।।


कौसल्येयो दृशो पातु विश्वामित्रप्रिय: श्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ।।5।।


जिह्वां विद्यानिधि: पातु कण्ठं भरतवन्दित: ।

स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ।।6।।


करौ सीतापति: पातु ह्रदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ।।7।।


सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।

ऊरू रघूत्तम: पातु रक्ष:कुल विनाशकृत् ।।8।।


जानुनी सेतुकृत्पातु जंघे दशमुखान्तक: ।

पादौ विभीषणश्रीद: पातु रामोऽखिलं वपु: ।।9।।


एतां रामबलोपेतां रक्षां य: सुकृती पठेत् ।

स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ।।10।।


पाताल भूतल व्योमचारिणश्छद्मचारिण: न

द्रष्टुपमपि शक्तास्ते रक्षितं रामनामभि: ।।11।।


रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।।12।।


जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ।।13।।


वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्।

अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ।।14।।


आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।

तथा लिखितवान्प्रात: प्रबुद्धो बुधकौशिक: ।।15।।


आराम: कल्पवृक्षाणां विराम: सकलापदाम् ।

अभिराम स्त्रिलोकानां राम: श्रीमानस न: प्रभु: ।।16।।


तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ।।17।।


फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।।18।।


शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्ष:कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।19।।


आत्तसज्जधनुषा विषुस्प्रशावक्षयाशुग निषंगसन्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ।।20।।


सन्नद्ध: कवची खड्गी चापबाणधरो युवा ।

गच्छन्मनारथान्नश्च राम: पातु सलक्ष्मण: ।।21।।


रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघूत्तम: ।।22।।


वेदान्तवेधो यज्ञेश: पुराणपुरुषोत्तम: ।

जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ।।23।।


इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित: ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय: ।।24।।


रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरा: ।।25।।


रामं लक्ष्मणपूर्वजं रघुवरं

सीतापतिं सुन्दरं

काकुत्स्थं करुणार्णवं गुणनिधिं

विप्रप्रियं धार्मिकम् ।


राजेन्द्रं सत्यसन्धं दशरथतनयं

श्यामलं शांतमूर्तिं

वन्दे लोकाभिरामं रघुकुलतिलकं

राघवं रावणारिम् ।।26।।


रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीताया: पतये नम: ।।27।।


श्रीराम राम रघुनन्दन राम राम

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम

श्रीराम राम शरणं भव राम राम ।।28।।


श्रीरामचन्द्रचरणौ मनसा स्मरामि

श्रीरामचन्द्रचरणौ वचसा ग्रणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि

श्रीरामचन्द्रचरणौ शरणं प्रपधे ।।29।।


माता रामो मत्पिता रामचन्द्र:

स्वामी रामो मत्सखा रामचन्द्र: ।

सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं

जाने नैव जाने न जाने ।।30।।


दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ।।31।।


लोकाभिरामं रणरंगधीरं

राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तं

श्रीरामचन्द्रं शरणं प्रपधे ।।32।।


मनोजवं मारुततुल्यवेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं

श्रीरामदूतं शरणं प्रपधे ।।33।।


कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

आरुहा कविताशाखां

वन्दे वाल्मीकिकोकिलम् ।।34।।


आपदामपहर्तारं दातारं

सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं

भूयो भूयो नमाम्यहम् ।।35।।


भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां रामरामेति गर्जनम् ।।36।।


रामो राजमणि: सदा

विजयते रामं रमेशं भजे

रामेणाभिहता निशाचरचमू

रामाय तस्मै नम: ।


रामान्नास्ति परायणं

परतरं रामस्य दासोऽस्म्यहं

रामे चित्तलय: सदा भवतु मे

भोराम मामुद्धर ।।37।।


राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्रनाम तत्तुल्यं रामनाम वरानने ।।38।।

Post a Comment (0)
Previous Post Next Post